अर्थनाशं मनस्तापं...

विकिसूक्तिः तः

सुभाषितम्

अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ॥

चाणक्यनीतिः अध्यायः ७

arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca ।
vañcanaṃ cāpamānaṃ ca matimān na prakāśayet ॥

पदच्छेदः

अर्थनाशं, मनस्तापं, गृहे, दुश्चरितानि, च, वञ्चनं, चापमानं, च, मतिमान्, न, प्रकाशयेत् ।


तात्पर्यम्

सम्पत्तेः हानिं, मनसः सन्तापं, गृहस्य दूषणं, वञ्चनम्, अपमाननम् - एतान् बुद्धिमान् जनः कदापि न प्रकाशयति ।


आङ्ग्लार्थः

Wise people do not talk about - loss of wealth, sadness in heart, family scandal, getting cheated, and insult.

"https://sa.wikiquote.org/w/index.php?title=अर्थनाशं_मनस्तापं...&oldid=17485" इत्यस्माद् प्रतिप्राप्तम्