अल्बर्ट् ऐन्स्टीन्

विकिसूक्तिः तः
प्रतिदिनं शताधिकवारम् अहं स्मरामि यत् मदीयम् अन्तर्जीवनं बाह्यजीवनञ्च पूर्वजानाम् इदानीन्तनानां जनानां च परिश्रमस्य फलं विद्यते । अतः मया यावत् प्राप्तं प्राप्यमाणञ्च... विद्यते तावता प्रमाणेन एव मया दातव्यम् इति ।

अल्बर्ट् ऐन्स्टीन् (१४ मार्च्, १८७९ - १८ एप्रिल् १९५५) कश्चन भौतविज्ञानी, जगति अत्यन्तं प्रभावशालिषु विज्ञानिषु अन्यतमः । तदीयः सापेक्षसिद्धान्तः अत्यन्तं प्रसिद्धः वर्तते । भौतशास्त्राय तदीयं योगदानं महत् वर्तते । द्युतिविद्युत्परिणामस्य विषये तेन यत् विवरणं प्रस्तुतं तन्निमित्तं नोबेल्प्रशस्तिः प्राप्ता ।

अमृतवचनानि[सम्पाद्यताम्]

तृप्तस्य मनुष्यस्य सन्तोषः एतावान् भवति यत् सः कदापि भविष्यतः विषये न चिन्तयति एव ।
  • तृप्तस्य मनुष्यस्य सन्तोषः एतावन् भवति यत् सः कदापि भविष्यतः विषये न चिन्तयति एव ।
    • १७ वयसि तेन लिखिते 'मम भावीयोजनाः' इत्यस्मिन् विषये लिखिते प्रबन्धे (१८ सेप्टेम्बर्, १८९६) The Collected Papers of Albert Einstein Vol. 1 (1987) Doc. 22
  • शरीरस्य घनराशिः तस्मिन् विद्यमानायाः शक्तेः मानं वर्तते ।
    • उद्धृतम् - Concepts of Mass in Classical and Modern Physics by Max Jammer (1961), p. 177.
  • प्रकृतिः सिंहस्य पृच्छमात्रम् अस्मभ्यं दर्शयति । किन्तु तत्र सिंहः विद्यते इत्यत्र मम लेशमात्रेण अपि संशयः न विद्यते यद्यपि तस्य महतः आयामस्य कारणतः सकृत् सः आत्मानं नेत्रयोः पुरतः प्रस्तोतुं नार्हति ।
    • Letter to H. Zangger (10 March 1914), quoted in The Curious History of Relativity by Jean Eisenstaedt (2006), p. 126.
  • जन्मना अहमस्मि ज्यू, स्वीस्देशस्य नागरिकः अस्मि । निर्माणेन मानवमात्रः अस्मि । केनापि स्थलेन सह मम नास्ति कोऽपि विशेषानुबन्धः ।
    • Letter to Alfred Kneser (7 June 1918); Doc. 560 in The Collected Papers of Albert Einstein Vol. 8
  • एतादृशान् अंशान् शिरसि अहं न वहामि यतः ते पुस्तकेषु सुलभतया उपलभ्यन्ते .... महाविद्यालयस्य शिक्षणस्य मौल्यं बहूनाम् अंशानां पठने न विद्यते अपि तु समीचीनतया चिन्तयितुं मनसः शिक्षणे विद्यते ।
    • एडिसन्-परीक्षायां उक्तानुसारं शब्दस्य वेगविषये यदा पृष्टं तदा अयं प्रतिस्पन्दः दर्शितः - New York Times (18 May 1921); Einstein: His Life and Times (1947) Philipp Frank, p. 185; Einstein, A Life (1996) by Denis Brian, p. 129; "Einstein Due Today" (February 2005) edited by József Illy, Manuscript 25-32 of the Einstein Paper Project; all previous sources as per Einstein His Life and Universe (2007) by Walter Isaacson, p. 299
  • कश्चन जनः 'अ' जीवने यशस्वी इति चेत्, अ=का + खे + मौ । का - कार्यम्, खे - खेला, मौ - मौनम् ।
    • उक्तम् - Samuel J Woolf, Berlin, Summer 1929. Cited with additional notes in The Ultimate Quotable Einstein by Alice Calaprice and Freeman Dyson, Princeton UP (2010) p 230
  • वस्तुतः उत्तमं सङ्गीतं, पौर्वात्यं पाश्चात्यं वा स्यात्, विश्लेषयितुम् असाध्यम् ।
    • रवीन्द्रठाकूरेण सह सन्दर्शने - (14 April 1930), published in The Religion of Man (1930) by Rabindranath Tagore, p. 222, and in The Tagore Reader (1971) edited by Amiya Chakravarty
  • शान्तिः अनुरोधेन न अपि तु अवगमनमात्रेण प्राप्तुं शक्या । कस्यचित् देशस्य आधीन्यम् आग्रहेण करणीयमिति चेत् तत्रत्यः सर्वः अपि पुरुषः, महिला, बालश्च मारणीयः भवेत् । तादृशं हिंसात्मकं विधानम् अनुसर्तुं यदि न इष्यते तर्हि शस्त्रोपयोगं विना समस्यापरिहारस्य मार्गः अन्वेष्टव्यः ।
    • भाषणम् - the New History Society (14 December 1930), reprinted in "Militant Pacifism" in Cosmic Religion (1931). Also found in The New Quotable Einstein by Alice Calaprice, p. 158.
  • परोपकाराय जीवनमात्रं भवेत् सार्थकं जीवनम् ।
    • प्रश्नोत्तरम् - Youth, a journal of Young Israel of Williamsburg, NY. Quoted in the New York Times, June 20, 1932, pg. 17.
  • मानवप्रकृत्तेः उपरि सस्याहारजीवनशैल्याः भौतिकपरिणामस्य अवलोकनात् मम भासते यत् ततः मानवतायाः उपरि महान् सत्परिणामः भवेदिति ।
    • पत्रम् - to Harmann Huth, 27 December 1930. Supposedly published in German magazine Vegetarische Warte, which existed from 1882 to 1935. Einstein Archive 46-756. Quoted in The New Quotable Einstein by Alice Calaprice (2005), p. 281.
  • अहम् अन्तर्बोधे अन्तःप्रेरणायां च विश्वसिमि । .... कदाचित् अकारणं मम भासते यत् अहं साधुः इति । १९१९ तमस्य वर्षस्य ग्रहणेन मम अन्तर्बोधस्य स्थिरीकरणं यदा जातं तदा नाहम् आश्चर्यान्वितः । यदि तथा न स्यात् तर्हि एव अहं विस्मितः स्याम् । कल्पना ज्ञानस्य अपेक्षया मुख्या । ज्ञानं भवति परिमितं किन्तु कल्पना इत्येषा समग्रं जगत् आलिङ्गति, प्रगतिं पोषयति, विकासं जनयति च । वैज्ञानिकसंशोधने अयं भवति अत्यन्तं प्रमुखः अंशः ।
    • Cosmic Religion : With Other Opinions and Aphorisms (1931) by Albert Einstein, p. 97; also in Transformation : Arts, Communication, Environment (1950) by Harry Holtzman, p. 138. This may be an edited version of some nearly identical quotes from the 1929 Viereck interview below.
  • विज्ञानम् इत्येतत् प्रतिदिनस्य चिन्तनस्य संस्कारं विना नान्यत् किञ्चित् ।
    • "Physics and Reality" in the Journal of the Franklin Institute Vol. 221, Issue 3 (March 1936)
"https://sa.wikiquote.org/w/index.php?title=अल्बर्ट्_ऐन्स्टीन्&oldid=17535" इत्यस्माद् प्रतिप्राप्तम्