अविद्यायामन्तरे...

विकिसूक्तिः तः

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः । - काठकोपनिषत् १-२-५

घनीभूते अविद्यान्धकारे मग्ना अपि अज्ञानिनः आत्मानं धीरान् पण्डितांश्च मन्यन्ते ।

वेदान्तेषु विद्या नाम आत्मविद्या, ब्रह्मविद्या एव । ब्रह्मविद्याम् एकां विहाय इतराः सर्वा अपि विद्याः
अविद्या एव । सकलशास्रपारङ्गतोऽपि महामेधावी सन्नपि आत्मज्ञानरहितश्चेत् तादृशं वेदान्तेषु अज्ञमेव
कथयन्ति । अत्र अज्ञानं नाम अध्यासः ॥

कर्मोपासनानुष्ठानतत्पराः लब्धदेवतासाक्षात्काराः, प्राप्ताणिमादिसिद्धयः, निग्रहानुग्रहसामर्थ्यवन्तः,
जनानुरागिणः अनेके तपस्विनः आत्मानं धीरान् पण्डितोत्तमान् च मन्यन्ते । सत्यमेते विभूतिपुरुषा एव,
अद्भुतमानवा एव, अतिमानवा एवैतेः, अपि तु नैते आत्मज्ञानिनः । न केवलं नैते ज्ञानिनः, किं तु एते
उपासकाः पण्डितंमन्याः सन्तः, आत्मानमेव प्राज्ञान् आत्मज्ञानिनश्च कथयन्तः सन्तः परमार्थतत्त्वविदः
आत्मज्ञानिन एव तिरस्कुर्वन्ति । तस्मात् एते अविद्यापण्डिता एव खलु ?

"https://sa.wikiquote.org/w/index.php?title=अविद्यायामन्तरे...&oldid=16284" इत्यस्माद् प्रतिप्राप्तम्