अविद्यायामन्तरे वर्तमानाः...

विकिसूक्तिः तः

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः।
जङ्घन्यमानाः परियन्ति मूढाः अन्धेनैव नीयमाना यथान्धाः ॥ - मुण्डकोपनिषत् १-२-८

घनीभूतायाम् अविद्यायामन्तरे वर्तमानाः सन्तोऽपि, आत्मानं ‘धीराः’ ‘पण्डिताः’ इति च मन्यमानाः मूढा जनाः,
दुःखसंसारसागरे मग्नाः सन्तः, सन्तप्ताः सन्तः, पुनः पुनः संसारचक्रे गृहीताः दुःखम् अनुभवन्तो वर्तन्ते । ईदृशाः
मानवाः अन्धेन नीयमानाः अन्धा इव स्वयम् अविवेकिन एव भवन्ति ॥

ये केवलं श्रौत–स्मार्त-कर्मनिरताः कर्ममार्गपरायणाः कर्ममार्गनिमग्नाः तान् ‘मूढाः’ इति अयं मन्त्रः निन्दति । न
केवलम् एते आत्मज्ञानरहिता इति, किन्तु ‘स्वयम् आत्मज्ञानिनः’ इति मन्यन्ते । अन्धे तमसि, तमसः मध्ये विद्यमाना
अपि इमे मूढाः आत्मानमेव धीरत्वेन, विवेकित्वेन प्राज्ञत्वेन पण्डितत्वेन च मन्यन्ते । न केवलम् एते मोक्षवञ्चिता इति,
किन्तु कुटिले संसारमार्गे एव मग्नाः लग्नाश्च सर्वदा दुःखभाजो भवन्ति । इदं सर्वमपि अविद्याफलमात्रमेव ॥