असुर्या नाम ते लोकाः...

विकिसूक्तिः तः

असुर्या नाम ते लोकाः अन्धेन तमसावृताः । - ईशावास्योपनिषत् ३

ते स्वर्गलोकाः असुरैः सम्पूर्णाः । ते लोकाः अन्धेन तमसा आवृताः ॥

पुण्यकर्माणः मरणानन्तरं स्वर्गादिलोकान् प्राप्य तत्र अमराः सन्तः जायन्ते इति शास्राणि उद्घोषयन्ति ।
सत्यमेतत्, तावता सर्वेऽपि ते अमराः ब्रह्मज्ञानिनः एव भवेयुः इति नियमो नास्ति । अमरा देवाः विषयभोगलोलुपाः
देहाभिमानिनः अज्ञानिनश्च भवेयुः । तस्मात् ते सुरा अपि पक्षे असुराः एव भवन्ति ॥

असुषु रमन्ते ये ते असुराः । इन्द्रियभोगानुरक्ताश्च असुराः । न हि स्वर्गलोकनिवासित्वमात्रेण ते अध्यासाहिताश्च
भवितुम् अर्हन्ति । ब्रह्मज्ञानिनां दृष्ट्या देवाधिदेवाश्च असुरा एव । यतः एतेषां ब्रह्मात्मज्ञानं वा मोक्षानन्दो वा नास्ति ॥

देवैः अणिमादिसिद्धिमद्भिः भाव्यम्, निग्रहानुग्रहादिसामर्थ्यविद्भिश्च भाव्यम् । तथाप्येते देवा अपि
अन्धा एव, ब्रह्मात्मज्ञानविमुखत्वात् ॥

"https://sa.wikiquote.org/w/index.php?title=असुर्या_नाम_ते_लोकाः...&oldid=16256" इत्यस्माद् प्रतिप्राप्तम्