अस्तमिते आदित्ये याज्ञवल्क्य...

विकिसूक्तिः तः

अस्तमिते आदित्ये याज्ञवल्क्य, चन्द्रमसि अस्तमिते, शान्ते अग्नौ,
शान्तायां वाचि, किंज्योतिरेवायं पुरुष इति । आत्मैवास्य ज्योतिर्भवति
इति होवाच भगवान् याज्ञवल्क्यः ॥ - बृहदारण्यकोपनिषत् ४-३-७

भगवन् याज्ञवल्क्य, आदित्ये अस्तमिते सति, चन्द्रमसि अस्तमिते,
अग्नौ शान्ते सति, वागिन्द्रिये च शान्ते सति अस्य पुरुषस्य किं
ज्योतिर्भवति ? ब्रूहि, इति जनकेन राज्ञा पृष्टः भगवान् याज्ञवल्क्यः
'आत्मैव अस्य ज्योतिर्भवति' इति उवाच ॥

अहः काले सूर्यः ज्योतिः, रात्रौ तु चन्द्र अग्नि वागिन्द्रियाणि ज्योतिर्भवन्ति ।
सत्यमेतत् ॥

अपि तु एतेषां बाह्यानां ज्योतिषामभावे सति आत्मा एव परं ज्योतिः ।
आत्मना एव ज्योतिषा सर्वाणि इन्द्रियाणि मनांसि च स्वस्वव्यापारं कुर्वन्ति ।
जडानाम् इन्द्रियाणाम् आत्मचैतन्यशक्तिरेव मूलकारणम् । परं ज्योतिरात्मा ॥