अस्थूलम् अनणु, अह्रस्वम्...

विकिसूक्तिः तः

‘अक्षर’स्य लक्षणम्

अस्थूलम् अनणु, अह्रस्वम् अदीर्घम्, अलोहितम्, अस्नेहम्, अच्छायम्, अतमः,
अवायु, अनाकाशम्, असङ्गम्, अरसम्, अगन्धम्, अचक्षुष्कम्, अश्रोत्रम्, अवाक्,
अमनः, अतेजस्कम्, अप्राणम्, अमुखम्, अमात्रम्, अनन्तरम्, अबाह्यम् । - बृहदारण्यकोपनिषत् ३-८-८

याज्ञवल्क्यस्य उपदेशोऽयम् । अक्षरस्य स्वरूपम् उपदिशति अयं मन्त्रः । अक्षरं न स्थूलम्,
न अणु, न ह्रस्वम्, न दीर्घम्, न लोहितम्; स्नेहरहितम्, न छायम्, न तमः; वायुरहितम्,
आकाशारहितम्, सङ्गरहितम्, रसरहितम्, गन्धरहितम्, नेत्ररहितम्, श्रोतृरहितम्,
वागिन्द्रियरहितम्, मनोरहितम्, तेजोरहितम्, प्राणरहितम्, मुखरहितम्, मात्रारहितम्,
अन्तररहितम्, बाह्यरहितं च ॥

अयमेकः प्रसिद्धो मन्त्रः । उपनिषत्सु प्रतिपादितस्य परस्य ब्रह्मणः स्वरूपं बहुसुन्दरतया
प्रतिपादयति अयं मन्त्रः । आत्मैव अक्षरम्, अक्षरमेव च परं ब्रह्म । ब्रह्मैव आत्मा ।
तदेतदक्षरं सकलोपाधिविवर्जितं भवति । इन्द्रियरहितं पञ्चभूतसम्बन्धरहितं निरुपाधिकं
तत्त्वम् अक्षरम् । एतद्यो वेत्ति स एव आत्मज्ञानी भवति ॥