अहं वृक्षस्य रेरिवा ।...
अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव । ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि ।
द्रविणं सवर्चसम् । सुमेधा अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम् ॥ - तैत्तिरीयोपनिषत् १-१०
अहमेव अस्य संसारवृक्षस्य प्रेरयिता, मम यशः पर्वतवत् उन्नतम्, अहम् ऊर्ध्वपवित्रः सन्
सूर्य इव अमृतः । अहं ब्रह्मवर्चसा युक्तः । अहमेव द्रविणम् अस्मि, अहं मेधावी । अहं नाशरहितः
आत्मा अस्मि- इत्येषः त्रिशङ्कोः उद्गारः ॥
त्रिशङ्कुर्नाम ज्ञानी एषः । तस्य स्वानुभववचः इदम् । अस्य संसारवृक्षस्य कारणभूतं ब्रह्म अहमेवास्मि
इति अयं त्रिशाङ्कुः उच्चैः उद्घोषयति । ब्रह्मवदेव ज्ञानी स्वयमपि जगतः कारणभूतः । ज्ञानी सूर्यवत् वर्चस्वी,
ब्रह्मवित् सर्वज्ञश्च भवति । ब्रह्मज्ञानमेव हि ब्रह्मविदः सम्पत् । ज्ञानेन मोक्ष एव लभ्यते । अहम् अमृतः अव्ययश्च
इति ज्ञानी आत्मानं जानाति । ज्ञानिपुङ्गवस्य त्रिशङ्कोः धीरवचनमिदम् । ईदृशः अनुभवोदयः सर्वेषामपि
ब्रह्मज्ञानिनां स्वाभाविकः । अहं ब्रह्मास्मि इति यः जानाति सः ज्ञानी ब्रह्मवदेव सर्वात्मा च भवति ॥