अहं सूर्य इवाजनि ॥

विकिसूक्तिः तः

अहं सूर्य इवाजनि ॥ (सामवेदः १५२)[सम्पाद्यताम्]

अहं सूर्यः इव प्रकाशवान् भविष्यामि ।

सूर्योदयेन अन्धकारः अपसरति, सर्वं स्पष्टं दृश्यते । सुप्ताः पशुपक्षिणः उत्थाय कलरवं कुर्वन्तः सोत्साहं नित्यकर्मणि आत्मानं नियोजयन्ति । सूर्यस्य गतिचलनादयः नियमबद्धाः, कालबद्धाः, अनुशासनबद्धाश्च भवन्ति । सूर्यस्य अयं स्वभावः मानवानां कृते आदर्शरूपः अस्ति । अस्माकं चिन्तन-वचन-व्यवहारादिभिः अज्ञानस्य, अन्धःश्रद्धायाः, अर्थहीनसम्प्रदायस्य च अन्त्यं विधाय, यथार्थज्ञानस्य प्राप्तेः निमित्तं प्रयत्नं कर्तुं शक्नुमः । मार्गभ्रष्टाः सन्तः स्वस्य पथे अन्येषां पथे च क्लेशान् दूरीकर्तुं शक्नुमः । सोत्साहं जगतः हितकार्येषु आत्मानं योजयन्तः अन्यान् अपि सत्कर्मेषु प्रेरयन्तः सार्थकजीवनं यापयितुं शक्यते । जीवनस्य ल्क्ष्य-मार्गादयः यथा अपेक्षिताः तथैव तस्मिन् मार्गे गमनावसरे रीति-नीति-नियमाः, कालदृष्ट्या पूर्वयोजितगतिः, अनुशासनबद्धाः व्यवहाराश्च अत्यपेक्षिताः । सर्वप्रेरकः समस्तस्य जगतः सञ्चालकः परमात्मा अपि सूर्यः एव ! सः यदि अस्माकम् आदर्शरूपः भवेत् तर्हि दैवीगुणानां सम्पादनाय प्रयतामहे । अयं सङ्कल्पः अस्मासु उदीयात् ।
"https://sa.wikiquote.org/w/index.php?title=अहं_सूर्य_इवाजनि_॥&oldid=549" इत्यस्माद् प्रतिप्राप्तम्