अहङ्कारं बलं दर्पं...

विकिसूक्तिः तः


सुभाषितम्

अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥

भगवद्गीता १८-५३

ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham ।
vimucya nirmamaḥ śānto brahmabhūyāya kalpate ॥

पदच्छेदः

अहङ्कारं, बलं, दर्पं, कामं, क्रोधं, परिग्रहम्, विमुच्य, निर्ममः, शान्तಃ, ब्रह्मभूयाय, कल्पते ।


तात्पर्यम्

अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहं च परित्यज्य यः निर्मोहः शान्तश्च भवेत् सः ब्रह्माणम् अधितिष्ठति । अहङ्कारदर्पादयः गुणाः वर्ज्याः इत्येतस्य अवगमने न कोपि क्लेशः । त्याज्यानाम् आवल्यां भगवता 'परिग्रहः' इत्येतदपि यद् योजितमस्ति तत् अस्माभिः अवलोकनीयम् । परिग्रहः नाम अन्येभ्यः सङ्ग्रहणप्रवृत्तिः । इयम् आत्मोन्नत्यै हानिकारकं भवति । यत् देवेन मह्यं न दत्तं तत् न मदीयम् इत्येतत् जीवपक्वतायाः लक्षणम् ।


आङ्ग्लार्थः

Relinshing egotism, violence, pride, desire, wrath, and the sense of possession-he, the unselfish and calm one, is capable of becoming the Brahman.

"https://sa.wikiquote.org/w/index.php?title=अहङ्कारं_बलं_दर्पं...&oldid=16747" इत्यस्माद् प्रतिप्राप्तम्