आगच्छति यदा लक्ष्मीः...

विकिसूक्तिः तः

सुभाषितम्

आगच्छति यदा लक्ष्मीः नारिकेलफलाम्बुवत् ।
निर्गच्छति यदा लक्ष्मीः गजभुक्तकपित्थवत् ॥

āgacchati yadā lakṣmīḥ nārikelaphalāmbuvat ।
nirgacchati yadā lakṣmīḥ gajabhuktakapitthavat ॥

पदच्छेदः

आगच्छति, यदा, लक्ष्मीः, नारिकेलफलाम्बुवत्, निर्गच्छति, यदा, लक्ष्मीः, गजभुक्तकपित्थवत् ।


तात्पर्यम्

लक्ष्म्याः आगमनं नारिकेले जलस्य सङ्ग्रहणं यथा (क्रमेण) भवति तथा भवति । किन्तु तस्याः निर्गमनं तु गजेन कपित्थभक्षणं यथा (सहसा) भवति तथा एव भवति ।


आङ्ग्लार्थः

Good luck appears (gradually), as water in the coconut and disappears (suddenly) as the fruit of the wood-apple (kapittha) which is eaten by an elephant.

"https://sa.wikiquote.org/w/index.php?title=आगच्छति_यदा_लक्ष्मीः...&oldid=17524" इत्यस्माद् प्रतिप्राप्तम्