आचार्यः पूर्वरूपम्...
आचार्यः पूर्वरूपम् । अन्तेवास्युत्तररूपम् । विद्या सन्धिः ।
प्रवचनं सन्धानम् । इत्यधिविद्यम् ॥ - तैत्तिरीयोपनिषत् १-३
आचार्यः पूर्वरूपम्, शिष्यः उत्तररूपम् । विद्या सन्धिः, प्रवचनं सन्धानम् ॥
विद्यासम्पादनद्वारा कृतकृत्यताप्राप्तिर्हि मानवस्य प्रधानं कर्तव्यम् । तत्रापि ब्रह्मविद्या
एव हि अन्वर्थविद्या । अनया एव मोक्षप्राप्तिः । मोक्ष एव मानवजन्मनः परमा गतिः ।
शीष्येणैव हि सम्पादनीया ब्रह्मविद्या ? तस्याः प्रतिपादयिता आचार्यः ॥
आचार्यस्य अनुग्रहादेव अस्माकं ब्रह्मविद्याप्राप्तिर्भवेत् । तस्मात् आचार्यस्य उच्चतमं
स्थानमस्ति । आचार्य एव देवः, आचार्य एव च सर्वस्वं शिष्यस्य । आचार्यस्य सेवया,
आचार्यस्य अनुग्रहादेव अस्माकम् आत्मज्ञानं प्राप्येत । प्रवचनं हि गुरुशिष्यौ उभावपि
संयोजयति । एतयोः संयोगस्य फलमेव विद्या नाम । एवं हि साधकेन मन्तव्यम् ।
सद्गुरूपासनेन योग्याय शिष्याय आत्मज्ञानोदयो भवति । ततः मोक्षप्राप्तिश्च फलम् ॥