आत्मानं नियमैस्त्यैस्त्यैः...

विकिसूक्तिः तः

सुभाषितम्

आत्मानं नियमैस्त्यैस्त्यैः कर्षयित्वा प्रयत्नतः ।
प्राप्यते निपुणैर्धर्मो न सुखात् लभते सुखम् ॥

रामायणम् ३/९/३२

ātmānaṃ niyamaistyaistyaiḥ karṣayitvā prayatnataḥ ।
prāpyate nipuṇairdharmo na sukhāt labhate sukham ॥

पदच्छेदः

आत्मानं, नियमैः, तैः, तैः, कर्षयित्वा, प्रयत्नतः, प्राप्यते, निपुणैः, धर्मः, न, सुखात्, लभते, सुखम् ।


तात्पर्यम्

पुण्येनैव सुखं प्राप्यते न तु सुखेन । अतः चतुराः नियमैः शरीरं परिश्राम्यन्तः पुण्यसङ्ग्रहणं कुर्वन्ति ।


आङ्ग्लार्थः

The wise earn dharma through getting their bodies emaciated by carefully adopting different means of discipline. Happiness does not beget happiness.