आत्मा वा इदमेक...

विकिसूक्तिः तः

आत्मा वा इदमेक एवाग्र आसीत् पुरुषविधः । - बृहदारण्यकोपनिषत् १-४-१
इदं सर्वं पुरा पुरुषविधः आत्मा एव एकः आसीत् ।

अत्र आत्मा नाम प्रजापतिः ब्रह्मा । अयमेव पुरुषविधः । इदानीं नामरूपाभ्यां भिन्नभिन्नतया
दृश्यमानम् इदं विश्वं सृष्टेः पूर्वं किमासीत् ? इति चेत्, आत्मैव आसीत् । अत्र आत्मा नाम
विराट् पुरुष एव । अयमेव हिरण्यगर्भः इति च कथ्यते ॥

पुरुषविधत्वं नाम शिरः पाणिपादम् नेत्रम् श्रोत्रम् इत्याद्येव । सूक्ष्मरूपेण अयमात्मा पुरुषविधः
आसीत् । अस्मादेव च इदानीं सर्वे पुरुषाः जाताः । अयं विराटपुरुषः आत्मानमेव अवलोक्य
सर्वान् जीवान् आत्मानन्यान् वीक्ष्य “अहमेव सर्वं जगत् अस्मि” इति यस्मात् ज्ञातवान्, तस्मात्
‘अहंनामा’ इत्यभवत् ॥

सृष्टेः पूर्वं परमार्थतः आत्मा एक एव आसीत्, स एव आत्मा प्रजापतिरूपेणापि अवभासते इति ।
अत्र मन्त्रे आत्मा इति प्रजापतिरपि भवति । अयमेव अव्याकृतात्मा इति च भवति ॥

"https://sa.wikiquote.org/w/index.php?title=आत्मा_वा_इदमेक...&oldid=16463" इत्यस्माद् प्रतिप्राप्तम्