आत्मा वा इदमेक एवाग्र...

विकिसूक्तिः तः

आत्मा वा इदमेक एवाग्र आसीत् । नान्यत् किञ्चन मिषत् ।
स ईक्षत लोकान्नु सृजा इति ॥ - ऐतरेयोपनिषत् १-१-१

इदं जगत् पुरा आत्मैव आसीत् । चञ्चलं किमपि अन्यत् नासीत् । ‘अहम् इदानीं
लोकान् सृजानि’ इति आलोचनं कृत्वा आत्मा इदं सर्वम् असृजत ॥

इदानीम् अस्मत्पुरतः दृश्यमानमिदं विश्वं भिन्नभिन्नतया चित्रविचित्रतया अद्भुतमिव खलु ?
अस्यैव व्याकृतप्रपञ्चः इति नामधेयम् । वि = विविधम्, आ= समन्तात्, कृतम् = व्याकृतम् ।
नाम, रूपं, क्रिया, देशकालौ, कार्यं, कारणादिरूपेण दृश्यमानमिदं हि विश्वं कार्यमुच्यते ।
इदं कार्यं जगत्सृष्टेः पूर्वं नैव आसीत् । तदा विद्यमानं तत्त्वम् आत्मा एक एव ।
आत्मा एक एव तदा आसीत् । आत्मना सह न किञ्चिदासीत् ॥

तर्हि कथमिदं द्वैतं जगत् इदानीं दृश्यते ? इति चेत्, आत्मन एव आगतमिदं जगत् ।
चिन्मात्रः आत्मा ‘लोकान् सृजानि’ इति कृत्वा स्वयमेव इदं विश्वं सृष्टवान् ।
आत्मैव स्वयमेव आत्मानमेव प्रपञ्चरूपेण सृजति । प्रपञ्चो नाम आत्मनः
भिन्नतया नैव विद्यते ॥