सामग्री पर जाएँ

आत्मैव अस्य ज्योतिर्भवतीति...

विकिसूक्तिः तः

आत्मैव नूनं ज्योतिः

आत्मैव अस्य ज्योतिर्भवतीति, आत्मनैव अयं ज्योतिषा आस्ते पल्ययते
कर्म कुरुते विपल्येतीति । - बृहदारण्यकोपनिषत् ४-३-६

आत्मैव अस्य जीवस्य ज्योतिः भवति । आत्मना एव ज्योतिषा अयं जीवः
आस्ते, पल्ययते, कर्म कुरुते, विपल्येति ॥

ज्योतिर्ब्राह्मणे अयमेको मन्त्रः । अस्य जीवात्मनः ज्योतिः कः ? इति जनकेन
पृष्टः याज्ञवल्क्यः ‘सूर्य एव ज्योतिः’ इति उपदिदेश । ‘सूर्ये अस्तमिते सति किं
ज्योतिः ?’ चन्द्रः । चन्द्रमसि अस्तमिते ? अग्निः। अग्नेरप्यभावे किं ज्योतिः?
वाक् । वाचि शान्तायां किं ज्योतिः ? इति जनकप्रश्नस्य उत्तरत्वेन याज्ञवल्क्यः
इमं मन्त्रम् उपदिदेश ॥

आत्मैव प्रकाशः, आत्मैव ज्योतिः । सुषुप्ते नैव बाह्यानि ज्योतीषि विद्यन्ते, न
च इन्द्रियमनांसि तत्र विद्यन्ते । आत्मा तु अस्त्येव तत्रापि । आत्मचैतन्यज्योतिषा
एव अयं कार्यकरणसङ्घातः स्वव्यापारं करोति । सूर्याचन्द्रमसोः अग्निनक्षत्रादीनामपि
आत्मैव ज्योतिः । अयमात्मा एव अस्माकं पारमार्थिकं स्वरूपम् ॥