आदौ चित्ते ततः काये...

विकिसूक्तिः तः

सुभाषितम्

आदौ चित्ते ततः काये सतां सम्पद्यते जरा ।
असतां तु पुनः काये नैव चित्ते कदाचन ॥




तात्पर्यम्

सज्जनानां प्रथमं मनसि अनन्तरं शरीरे वार्धक्यं परिदृश्यते । किन्तु अन्येषां शरीरे वार्धक्यं दृश्यते चेदपि चित्ते वार्धक्यं न भविष्यति एव ।

"https://sa.wikiquote.org/w/index.php?title=आदौ_चित्ते_ततः_काये...&oldid=14882" इत्यस्माद् प्रतिप्राप्तम्