आपत्समुद्ररणवीरधियः...

विकिसूक्तिः तः

सुभाषितम्

आपत्समुद्ररणवीरधियः परेषां
जाता महत्यपि कुले न भवन्ति सर्वे ।
विन्ध्याटवीषु विरलाः खलु पादपास्ते
ये दन्तिदन्तमुसलोल्लिखनं सहन्ते ॥

āpatsamudraraṇavīradhiyaḥ parēṣāṁ
jātā mahatyapi kulē na bhavanti sarvē ।
vindhyāṭavīṣu viralāḥ khalu pādapāstē
yē dantidantamusalōllikhanaṁ sahantē

पदच्छेदः

आपत्समुद्ररणवीरधियः, परेषां, जाताः, महति, अपि, कुले, न, भवन्ति, सर्वे, विन्ध्याटवीषु, विरलाः, खलु, पादपाः, ते, ये, दन्तिदन्तमुसलोल्लिखनं, सहन्ते ।


तात्पर्यम्

सर्वेऽपि आपदं सोढुं न शक्नुवन्ति, धीराः एव आपत्काले धैर्येण कार्यं कुर्वन्ति । यथा वने गजस्य पादघातं केचन पादपाः एव सहन्ते, न सर्वे ।