आयत्यां गुणदोषज्ञः...

विकिसूक्तिः तः

सुभाषितम्

आयत्यां गुणदोषज्ञः तदात्वे क्षिप्रनिश्चयः ।
अतीते कार्यशेषज्ञः विपदा नाभिभूयते ॥




तात्पर्यम्

अग्रे भविष्यमाणस्य कार्यस्य गुणदोषाणां ज्ञाता, वर्तमानविषये शीघ्रनिर्णयस्वीकरणे समर्थः, कृते कार्ये अवशेषस्य ज्ञाता विपत्तौ पराजितः न भवति ।

"https://sa.wikiquote.org/w/index.php?title=आयत्यां_गुणदोषज्ञः...&oldid=16833" इत्यस्माद् प्रतिप्राप्तम्