आरभन्तेऽल्पमेवाज्ञाः...

विकिसूक्तिः तः

सुभाषितम्

आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति ते ।
महारम्भाः कृतधियः तिष्ठन्ति च निराकुलाः ॥




तात्पर्यम्

अज्ञानिनः अल्पं कार्यम् आरभन्ते चेदपि व्याकुलाः भवन्ति । किन्तु महात्मानः महतः कार्यस्य आरम्भं कुर्वन्ति चेदपि शान्तचित्ताः सन्तः कार्याणि निर्वहन्ति ।