आर्या

विकिसूक्तिः तः

अतिपरिचयादवज्ञा सन्ततगमनादनादरो भवति।मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते॥
ओष्ठे तव शुभनाम वसतु सदा लोचने च तव रूपम्।ध्यानं मनसि तवैव नात: परमर्थये किमपि देव॥
कश्मलमङ्गाङ्गेषु बद्धं जननान्तरेषु सम्पुष्टम्।कष्टं प्राणान् तुदति हर गङ्गे हराङ्गसङ्गते॥
मुनिभि: पवित्रमतिभि: मूढजनेभ्य: प्रदर्शितो मार्ग:।अनुसरन्ति तं धन्या:, आत्मश्रेयोऽर्थिन: सदैव॥
मुष्टिमितेन सुदाम्ना लक्ष्मीश वशीकृतोऽसि पुथुकेन।चित्तं प्रेमापूर्णं प्राप्तुं त्वामलं न पृथुधनम्॥
षड् दर्शनानि प्रथितानि लोके साङ्ख्यं च योगश्च नयस्तथैव।वैशेषिकं जैमिनीयं च शास्त्रं वेदान्तशास्त्रं चरमं चकास्ति॥
षट्के प्रथमे कर्म, द्वितीयषट्के विवेचितं ज्ञानम्।भक्तिस्तृतीयषट्के त्रयो विभागा भवन्ति गीतार्थे॥

"https://sa.wikiquote.org/w/index.php?title=आर्या&oldid=17799" इत्यस्माद् प्रतिप्राप्तम्