आवृत्तिकं त्यजेद्देशं...

विकिसूक्तिः तः

सुभाषितम्

आवृत्तिकं त्यजेद्देशं वृत्तिं सोपद्रवां त्यजेत् ।
त्येजेन्मायाविनं मित्रं धनं प्राणहरं त्यजेत् ॥

āvṛttikaṃ tyajeddeśaṃ vṛttiṃ sopadravāṃ tyajet ।
tyejenmāyāvinaṃ mitraṃ dhanaṃ prāṇaharaṃ tyajet ॥

पदच्छेदः

आवृत्तिकम्, त्यजेत्, देशम्, वृत्तिम्, सोपद्रवाम्, त्यजेत्, त्येजेत्, मायाविनम्, मित्रम्, धनम्, प्राणहरम्, त्यजेत् ।


तात्पर्यम्

यस्मिन् देशे क्षेत्रे वा धनार्जनस्य साधनं नास्ति, नरः तं देशं त्यजेत्, यस्मिन् व्यापारे कार्ये च अनेकाः आपदः सन्ति तत् कार्यमपि जनः त्यजेत्, यत् मित्रं कपटयुक्तम् अस्ति तत् मित्रम् अपि नरः त्यजेत् अपि च यत् धनं प्राणघातकम् अस्ति तत् धनम् अपि नरः त्यजेत् ।