इन्दुक्ष्वेडन्यायः

विकिसूक्तिः तः

क्ष्वेडः नाम विषम् । इन्दुः नाम चन्द्रः । शिवः स्वमूर्धनि चन्द्रं धारयति । तथा अङ्गानाम् उपरि विषधारिणः सर्पान् धारयति । चन्द्रं मूर्धनि विषं कण्ठे च धारयति । बुद्धिमान् मनुष्यः गुणान् दोषान् च स्वीकरोति । सः अन्येषां गुणान् प्रशंसति दोषान् आच्छादयति अर्थात् तस्य उपरि आच्छादकं स्थापयति इव । शिवः अपि विषं कण्ठे नियच्छति आच्छाद्य स्थापयति । (सा. ३२२)

"https://sa.wikiquote.org/w/index.php?title=इन्दुक्ष्वेडन्यायः&oldid=8463" इत्यस्माद् प्रतिप्राप्तम्