इहैवान्तः शरीरे सोम्य...

विकिसूक्तिः तः

अस्मास्वेव कलापुरूषोऽस्ति

इहैवान्तः शरीरे सोम्य, स पुरुषः, यस्मिन्नेताः षोडश कलाः
प्रभवन्तीति । - प्रश्नोपनिषत् ६-२

हे सोम्य, सुकेशाभारद्वाज, यस्मिन् एताः षोडश कलाः प्रभवन्ति, सः
पुरुषः इहैव अन्तः शरीरे अस्ति ।

आत्मनः षोडशकलपुरुषः इति नामधेयम्, अयं षोडशकलपुरुषः अस्मास्वेव
निहितोऽस्ति । अस्मादेव पुरुषात् षोडशकलाः प्रभवन्ति, अस्मिन्नेव विद्यन्ते,
जीवन्ति, अन्ते च पुरुषे एव लीयन्ते । षोडाशानामपि कलानां कारणभूतः सः
पुरुषः आत्मैव इति यो विजानाति स एव धीरः ॥

भवतु ताः षोडश कलाः काः ? इति चेत् उच्यते । प्राणः, श्रद्धा, आकाशः,
वायु, तेजः, आपः, पृथिवी, इंद्रियाणि, मनः, अन्नम्, वीर्यम्, पतः, वेदाः कर्माणि,
लोकाः, नामानि च – इति षोडश कलाः । एतासां षोडशानाम् अपि कलानां
कारणभूतः कलानाम् आधारभूतः सन्, स्वयं तु षोडशाकलाभ्योऽपि विलक्षणः
सच्चिदानन्दस्वरूपः आत्मैव इति जानीयात् । इदमेव हि आत्मज्ञानं नाम ।
ब्रह्मविद्या च इयमेव । एषैव अक्षरविद्या, अध्यात्मविद्या च ॥