उत्तमे च क्षणं कोपो...

विकिसूक्तिः तः

सुभाषितम्

उत्तमे च क्षणं कोपो मध्यमे घटिकाद्वयम् ।
अधमे स्यादहोरात्रं पापिष्ठे मरणान्तकः ॥

uttame ca kṣaṇaṃ kopo madhyame ghaṭikādvayam ।
adhame syādahorātraṃ pāpiṣṭhe maraṇāntakaḥ ॥

पदच्छेदः

उत्तमे, च, क्षणं, कोपः, मध्यमे, घटिकाद्वयम्, अधमे, स्यात्, अहोरात्रं, पापिष्ठे, मरणान्तकः ॥


तात्पर्यम्

उत्तमेषु कोपः भवति क्षणिकः । मध्यमेषु घटिकाद्वयं (घटिका=२४ निमेषाः) यावत् कोपः तिष्ठेत् । अधमेषु अहोरात्रं भवेत् । अधमाधमेषु आजीवनं कोपः तिष्ठेत् ।


आङ्ग्लार्थः

Anger stays in great people for a moment, in the mediocre people for nearly an hour, in lowly people probably for a day and night, for the sinners, it is till the end of life.

"https://sa.wikiquote.org/w/index.php?title=उत्तमे_च_क्षणं_कोपो...&oldid=17784" इत्यस्माद् प्रतिप्राप्तम्