उत्पत्तिमायतिं स्थानं...

विकिसूक्तिः तः

उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ।
अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते ॥ प्रश्नोपनिषत् ३-१२

प्राणस्य उत्पत्तिः, आगमनम्, अस्तित्वम्, विभुत्वम्, पञ्चप्रकारेण अध्यात्मं च – इति प्राणस्य रहस्यपञ्चकं
यः जानाति, सः अमृतत्वम् अश्नुते ॥

प्राणोपासनेन सापेक्षिकम् अमृतत्वं प्राप्यते । प्राणोपासनस्य तु एतानि पञ्च रहस्यानि भवन्ति । तानि च –

१. आत्मन एव प्राणो जायते । आत्मा एव प्राणस्य मूलकारणम् आत्मन एव जनित्वा आत्मन्येव स्थित्वा
आत्मन्येव प्राणो लीयते ॥
२. मनोद्वारा प्राणः इमं देहं प्रविशति, तथा सर्वमेव शरीरं व्याप्नोति ॥
३. कार्यकरणसंघातमिमं संव्याप्य प्राणः अन्तः बहिश्च वर्तते ॥
४. सर्वाण्यपि इन्द्रियाणि संव्याप्य प्राणः अनेकैः रुपैः अवभासते । प्राणः स्वयं विभुश्च ॥
५. पायूपस्थयोः अपानः, नेत्रश्रोत्रमुखनासिकासु प्राणः, नाभिदेशे समानः सन् प्राणः इन्द्रियव्यापी इति
जानतः प्राणोपासनेन प्राणसायुज्यमेव फलं लभ्यते ॥