उदकनिमज्जनन्यायः

विकिसूक्तिः तः

जलपानेन मनुष्यस्य पिपासा शाम्यति । परं तत् यावत् आवश्यकं तावदेव पिबेत् चेत् । अधिकं जलम् अस्ति इति कूपे वा तडागे वा यदि सः उन्मज्जेत् तर्हि तस्य दुःखस्य अन्तः न भवति । कस्यापि वस्तुनः योग्येन आस्वादनेन मनुजस्य आनन्दः भवति । अतिमात्रेण भोगेन अन्ते दुःखम् एव भवति इति अनेन सूच्यते ।

तुल्याः विषभक्षणन्यायः, घटारोहणन्यायः, तप्तमाक्षिकोद्धरणन्यायः

"https://sa.wikiquote.org/w/index.php?title=उदकनिमज्जनन्यायः&oldid=8480" इत्यस्माद् प्रतिप्राप्तम्