उभे सत्ये क्षत्रियाद्यप्रवृत्ते...
सुभाषितम्
उभे सत्ये क्षत्रियाद्यप्रवृत्ते
मोहो मृत्युः सम्मतो यः कवीनाम् ।
प्रमादं वै मृत्युमहं ब्रवीमि
सदाऽप्रमादममृतत्वं ब्रवीमि ॥
सनत्सुजातीयम् १-४
ubhe satye kṣatriyādyapravṛtte moho mṛtyuḥ sammato yaḥ kavīnām ।
pramādaṃ vai mṛtyumahaṃ bravīmi sadā'pramādamamṛtatvaṃ bravīmi ॥
पदच्छेदः
उभे, सत्ये, क्षत्रिय, आद्यप्रवृत्ते, मोहः, मृत्युः, सम्मतः, यः, कवीनाम्, प्रमादं, वै, मृत्युम्, अहं, ब्रवीमि, सदा, अप्रमादम्, अमृतत्वं, ब्रवीमि ।
तात्पर्यम्
हे क्षत्रिय (धृतराष्ट्र) ! कर्ममार्ग-ज्ञानमार्गौ उभौ सत्यौ, प्राचीनकालाद् विद्यमानौ एव । मोहः एव मृत्युः इति केचन वदन्ति ।
अहं वदामि - प्रमादः एव मृत्युः, प्रमादराहित्यमेव अमृतत्वम् इति ।
विहितकर्माचरणैः अमृतत्वं साधयितुं शक्यम् इति काचित् दृष्टिः । किन्तु परमात्मानं विना न किञ्चित् विद्यते इत्यतः मृत्युः इत्येतत् न विद्यते एव इति अन्या दृष्टिः । इदं विमर्शयता सनत्सुजातेन एवं निर्णयः दीयते - प्रमादः एव मृत्युः, अप्रमादः एव अमृतत्वम् इति ।
'प्रमादः' इत्येतस्य शब्दस्य अत्र विशेषः अर्थः विद्यते । प्रमादः नाम ब्रह्मभावात् अपसरणम् इति । अप्रमादः नाम ब्रह्मभावे स्थितिः इति । विभिन्नाः मोहाः, मिथ्याज्ञानम् इत्यादीनां मूलं ब्रह्मभावस्य विस्मरणमेव । ब्रह्मभावः जागरितः यदि भवेत् तर्हि मोहेन मृत्युना वा बाधा न भविष्यति ।
O King, both truths have been taught from the beginning. Death is delusion is the understanding of the wise. I say that death is a mistake. I say that immortality is the absence of mistake.