उष्ट्रलगुडन्यायः

विकिसूक्तिः तः

उष्ट्रस्य पृष्ठभागे वस्तूनि स्थापयित्वा ये प्रवासं कुर्वन्ति ते तैः वस्तुभिः सह एकं लगुडं (दण्डम्) अपि तस्य पृष्ठभागे स्थापयित्वा नयन्ति । सः उष्ट्रः वस्तुभिः साकं तं दण्डम् अपि वहति । परन्तु समये प्राप्ते ते जनाः तम् उष्ट्रं ताडयितुं तस्य दण्डस्य उपयोगं कुर्वन्ति । वादेषु प्रतिपक्षिणा कथितया युक्त्या तस्य एव निरासः कृतः चेत् उष्ट्रलगुडन्याय इति वदन्ति ।

अयं हि स्वमते परेण उद्भाव्यमानानां दूषणानां तन्मते पातने अवतरति ।

"https://sa.wikiquote.org/w/index.php?title=उष्ट्रलगुडन्यायः&oldid=16936" इत्यस्माद् प्रतिप्राप्तम्