ऊषरवृष्टिन्यायः

विकिसूक्तिः तः

ऊषर इति निःसारं क्षेत्रम् । ऊषरक्षेत्रे कियती अपि वृष्टिः भवतु सा निष्प्रयोजना एव । तत्र जलं भवति चेदपि बीजानि न प्ररोहन्ति । मूलतः यः बुद्धिहीनः ग्रहण-धारण-कुशलः नास्ति तादृशाय कियतीमपि सुवुधां वयं कल्पयामः तस्य ज्ञानवृद्धिः न भवति इति अस्य न्यायस्य तात्पर्यम् ।

"https://sa.wikiquote.org/w/index.php?title=ऊषरवृष्टिन्यायः&oldid=15622" इत्यस्माद् प्रतिप्राप्तम्