ऋचो अक्षरे परमे व्योमन्...

विकिसूक्तिः तः

ऋचो अक्षरे परमे व्योमन्
यस्मिन् देवा अधि विश्वे निषेदुः ।
यस्तं न वेद किम् ऋचा करिष्यति
य इत्तद्विदुः त इमे समासते ॥ - श्वेताश्वतरोपनिषत् ४-८

यस्मिन् परमे व्योम्नि अक्षरे वेदाः प्रतिष्ठिताः, सर्वे देवाश्च प्रतिष्ठिताः सन्ति,
तं परमात्मानं यः मूढः न जानाति, स केवलेन शुष्केण वेदाध्ययनेन किं
करिष्यति ? ये तद् ब्रह्म स्वात्मत्वेन विदुः ते सन्तृप्ताः सन्तः अमृता भवन्ति ।

सर्वे वेदाः, सर्वे देवाश्च परस्मादेव आत्मनः जाताः सन्तः परमात्मन्येव प्रतिष्ठिताः
सन्ति । परं ब्रह्मैव समस्तस्यापि विश्वस्य आस्पदभूतं कूटस्थं तत्त्वम् । सर्वाणि
वेदवेदान्तशास्त्रपुराणानि तमेव परमात्मानं प्रतिपादयन्ति । परब्रह्मणः विज्ञानमेव
परमं लक्ष्यम् ॥

परं ब्रह्म अविज्ञाय सकलवेदशास्त्रपारङ्गतश्चेत् तावन्मात्रेण किं प्रयोजनम् ? अधीता
वेदा एव अनर्थज्ञं तम् अज्ञं तिरस्कुर्वन्ति । परमात्मानं विज्ञायैव मानवः अमृतात्मा
भवति । शास्त्राध्ययनस्य ब्रह्मज्ञानमेव परमं प्रयोजनम् ॥