ऋतुमतीकन्यकान्यायः

विकिसूक्तिः तः

यदा कन्या ऋतुमती भवति तस्याः विवाहकालः संप्राप्त इति ज्ञात्वा विवाहस्य सिद्धता भवति स्म । सा विवाहयोग्या जाता इति सर्वे भावयन्ति स्म । विवाहानन्तरं सा कन्या मातापितृभ्यां दूरं गता शनैः शनैः पूर्णतया पत्युः अधीना भवति स्म । एवं कस्यचित् जनस्य कालान्तरे एकः दीर्घकालिकः आधारः प्राप्यते चेत् तां स्थितिं दर्शयितुम् अस्य न्यायस्य प्रयोगः भवति ।

"https://sa.wikiquote.org/w/index.php?title=ऋतुमतीकन्यकान्यायः&oldid=8966" इत्यस्माद् प्रतिप्राप्तम्