एकं विषरसो हन्ति...

विकिसूक्तिः तः

सुभाषितम्

एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते ।
सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविप्लवः ॥




तात्पर्यम्

विषरसः तत् पीतवन्तं हन्ति, शस्त्रेण विद्धः जनः एव मरणं प्राप्नोति । किन्तु राज्ञः मन्त्रालोचनस्य क्रमः दुष्टः यदि भवेत् तर्हि तस्मात् न केवलं राजा अपि च राष्ट्रमेव विनष्टं भविष्यति ।

"https://sa.wikiquote.org/w/index.php?title=एकं_विषरसो_हन्ति...&oldid=15140" इत्यस्माद् प्रतिप्राप्तम्