एकचक्रो रथो यन्ता...

विकिसूक्तिः तः

सुभाषितम्

एकचक्रो रथो यन्ता विकलो विषमा हयाः ।
आक्रमत्येव तेजस्वी तथाप्यर्को नभस्तलम् ॥

ekacakro rathī yantā vikalo viṣamā hayāḥ ।
ākramatyeva tejasvī tathāpyarko nabhastalam ॥

पदच्छेदः

एकचक्रः, रथः, यन्ता, विकलः, विषमाः, हयाः, आक्रमति, एव, तेजस्वी, तथा, अपि, अर्कः, नभः, तलम् ।


तात्पर्यम्

रथे एकम् एव चक्रम्, सारथी विकलाङ्गः, रथस्य अश्वाः विषमसङ्ख्यकाः, तथापि सूर्यः स्वतेजसा एव आकाशं पृथ्वीं च आक्रमति ।

"https://sa.wikiquote.org/w/index.php?title=एकचक्रो_रथो_यन्ता...&oldid=16779" इत्यस्माद् प्रतिप्राप्तम्