एकनाथरानडे

विकिसूक्तिः तः

एकनाथरामकृष्णरानडे (नवेम्बर् १९, १९१४ - आगस्ट् २२, १९८२) स्वातन्त्र्ययोधा, क्रान्तिकारी च आसीत् । स्वामी विवेकानन्दवर्येण नितरां प्रेरितः सः १९७१ तमे वर्षे भारते कन्याकुमार्यां विवेकानन्दकेन्द्रं संस्थापितवान् ।

अमृतवचनानि[सम्पाद्यताम्]

गतेभ्यः सहस्राधिकवर्षेभ्यः अस्माभिः स्वीयं कर्तव्यं विस्मृतम् अस्ति । अस्माभिः एव कृतानां विपरीतकर्मणां कारणतः अद्यत्वे वयं कटुफलम् अनुभवन्तः स्मः । समाजस्य राष्ट्रस्य वा वैभवपूर्ण-स्थितेः निर्माणं यथा सिद्ध्येत् तादृशम् उत्तमं कार्यं करवाम । तादृशं कार्यं कुर्याम येन तदीयं फलम् अग्रिमपरम्परीयैः अपि अवश्यं प्राप्येत । (सङ्घसाधना, एकनाथरानडे, पृ-131)

"https://sa.wikiquote.org/w/index.php?title=एकनाथरानडे&oldid=16960" इत्यस्माद् प्रतिप्राप्तम्