एकीभवति न पश्यति...

विकिसूक्तिः तः

एकीभवति न पश्यति इत्याहुः, एकीभवति न जिघ्रति इत्याहुः…… न विजानाति
इत्याहुः । - बृहदारण्यकोपनिषत् ४-४-२

इन्द्रियम् लिङ्गात्मनि एकीभवति । तदा समीपस्थाः मुमूर्षुं दर्शयन्तः 'अयं न पश्यति, न जिघ्रति,
न विजानाति' इत्याहुः ॥

मुमूर्षुर्नाम मरणसमीपस्थः । प्रारब्धकर्मफलानि अनुभूय अस्य जन्मनः, अस्य लोकस्य, अस्य देहस्य
च सर्वान् व्यवहारान् परिसमाप्य आगामिजन्म प्राप्तुम्, आगामिदेहं प्राप्तुं सिद्धो हि मुमूर्षुर्नाम । अयं यदा
प्राणं त्यजति तदा अस्य सर्वाण्यपि इन्द्रियाणि स्वानि स्वानि मूलस्थानानि प्रविशन्ति । तानि तानि
इन्द्रियाणि आत्मनः तासु तासु कारणदेव तासु एकीभवन्ति ॥

अत्र प्रमाणं तु अयं मन्त्रः । मुमूर्षोः इन्द्रियमनांसि तदा स्वस्व व्यापारेभ्यः शान्तानि भवन्ति । अत एव
तस्य समीपस्थाः बान्धवाः तं पश्यन्तः 'एषः नैव किञ्चित् पश्यति, नैव किञ्चित् जानाति' इति वदन्ति
खलु ? एषा एव मुमूर्षोः अवस्था !

"https://sa.wikiquote.org/w/index.php?title=एकीभवति_न_पश्यति...&oldid=16467" इत्यस्माद् प्रतिप्राप्तम्