एकेनापि हि शूरेण...

विकिसूक्तिः तः

सुभाषितम्

एकेनापि हि शूरेण पदाक्रातं महीतलम् ।
क्रियते भास्करेणेव स्फारस्फुरिततेजसा ॥

ekenāpi hi śūreṇa padākrātaṃ mahītalam ।
kriyate bhāskareṇeva sphārasphuritatejasā ॥

पदच्छेदः

एकेन, अपि, हि, शूरेण, पदाक्रान्तं, महीतलम्, क्रियते, भास्करेण इव, स्फारस्फुरिततेजसा ।


तात्पर्यम्

यथा रविः अत्यन्तविशालतेजसा सम्पूर्णां पृथ्वीं व्याप्नोति तथैव एक एव वीरः शौर्येण सम्पूर्णां पृथ्वीं निश्चयेन स्वायत्तीकर्तुं शक्नोति ।

"https://sa.wikiquote.org/w/index.php?title=एकेनापि_हि_शूरेण...&oldid=16547" इत्यस्माद् प्रतिप्राप्तम्