एकैकः पुरुषो देवान्...

विकिसूक्तिः तः

एकैकः पुरुषो देवान् भुनक्ति….. तस्मात् एषां तन्न प्रियं यदेतत् मनुष्या विदुः । - बृहदारण्यकोपनिषत् १-४-१०

यथा एकैकः पुरुषः अनेकान् पशून् पालयित्वा तेभ्यः स्वयं सुखम् अनुभवति, तथैव देवताः मनुष्यान् पशुवत् रक्षन्ति ।
अयं मानवः बहुदेवतानां पशुस्थानीयः सन् देवताराधनद्वारा ताभ्यो भोगान् उत्पादयति । तस्मात् यदि मनुष्याः आत्मानं
विज्ञाय कृतार्थाः भवितुम् ईहन्ते, न तत् देवानाम् किञ्चिदपि इष्टं भवति ॥

कर्मोपासनानि कुर्वन्तः देवताः स्तुवन्तः, देवताभ्यः आहुतीः अर्पयन्तः मानवाः यदि देवताः सन्तोषयन्ति, तदा तास्ता
देवताः सन्तुष्यन्ति । ततः सन्तुष्टाः देवताः मानवेभ्यः इष्टप्राप्तिरूपं फलम् अनुगृह्णन्ति । मानवैः प्रार्थितान् सर्वान् वरान्
देवताः पूरयन्ति च ॥

एतत् सर्वमपि लौकिकदृष्ट्या रमणीयमिव दृश्यमानमपि अत्र दोषोऽस्ति । मानवाः पशूनिव, देवा अपि मानवान् स्वार्थपशून्
कृत्वा परिपालयन्ति । परमस्वार्थिनो हि देवाः । तस्मात् हे मानवाः, जाग्रत, जाग्रत ! आत्मज्ञानेन यूयं कृतार्था भवत ॥

"https://sa.wikiquote.org/w/index.php?title=एकैकः_पुरुषो_देवान्...&oldid=16468" इत्यस्माद् प्रतिप्राप्तम्