एको देवः सर्वभूतेषु...

विकिसूक्तिः तः

एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवलो निर्गुणश्च ॥ - श्वेताश्वतरोपनिषत् ६-११

परमात्मा अद्वितीयः स्वयंप्रकाशः सन् सर्वभूतेषु गूढः ।
अयं सर्वव्यापकः सर्वभूतान्तरात्मा कर्माध्यक्षः सर्वभूताधिवासश्च ।
अयमेवात्मा साक्षी चिन्मात्रः केवलो निर्गुणश्च भवति ॥

अयं मन्त्रः सुप्रसिद्धः । अध्यारोपापवादप्रक्रियाम् अनुसृत्य
अयं मन्त्रः परब्रह्मणः परमार्थस्वरूपं प्रतिपादयति । परमात्मा
एकः, अद्वितीयः । अयं सर्वभूतेषु वसति । सर्वव्यापकोऽपि
आत्मा अयं कर्माध्यक्षः । सर्वप्राणिनां सर्वकर्मणां तत्तत्फलानां
च साक्षिभूतोऽयम् आत्मा । सर्वे प्राणिनः स्वस्वस्वभावसंस्कारानुगुण्येन
पुण्यपापकर्माणि कुर्वन्ति । तथैव तादृशानि फलानि च प्राप्य
भुञ्जते । आत्मा तु सर्वस्याप्यस्य केवलं साक्षिभूतः । आत्मा स्वयं
निर्गुणः, निर्विशेषः, केवलः अद्वितीयश्च भवति ॥

"https://sa.wikiquote.org/w/index.php?title=एको_देवः_सर्वभूतेषु...&oldid=16606" इत्यस्माद् प्रतिप्राप्तम्