एतं ह वाव न तपति...
अस्य महतो भूतस्य निः श्वसितम् एतत् यद् ऋग्वेदो यजुर्वेदः सामवेदो अथर्वाङ्गिरसः । - बृहदारण्यकोपनिषत् २-४-१०
ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः इत्येते महतः परमात्मनः निः श्वसितमेव ।
सर्वे वेदाः, समस्ताः उपनिषदः, सकलानि शास्त्राणि च परमात्मन एव जायन्ते । मीमांसकाः वेदान् अपौरुषेयान् आचक्षते ।
अपौरुषेयत्वं नाम न केनापि पुरुषेण रचितत्वम् । वेदान्तिनोऽपि वेदान् अपौरुषेयान् एव वदन्ति । अपि तु द्वयोरपि वेदापौरुषेयत्व
विषये अस्ति विशेषः ॥
वेदाः परमात्मनः निः श्वसितम्, भगवतः वाणी, ईश्वरस्य वचः – इति वेदान्तिनः कथयन्ति । नासिकावायुः उच्छवासः
निश्श्वासश्च इति द्विधा विद्यते हि । प्रयत्नसाध्यः उच्छ्वासः, निरायासस्तु निश्श्वासः । वेदाः भगवतः निश्श्वासः । परमात्मनो
निरायासम् आगता वेदाः भगवतः निश्श्वासः । परमात्मनो निरायासम् आगता वेदाः सहजतया अभिव्यक्ता इत्यर्थः । सर्वज्ञस्य
सर्वशक्तस्य च परमात्मनः बाह्यसाकाररूपा एव हि वेदा नाम । तस्मादेव हेतोः वेदाः प्रमाणानि भवन्ति ॥