एतत् ज्ञेयं नित्यमेवात्मसंस्थं...

विकिसूक्तिः तः

एतत् ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किञ्चित् । - श्वेताश्वत्रोपनिषत् १-१२

नित्यमेव आत्मसंस्थं ब्रह्मैव सर्वैः ज्ञेयम्, अतः परं वेदितव्यं किञ्चिदपि नास्ति ।

सर्वासां वेदोपनिषदां सारं सरलतया उपदिशति अयं मन्त्रः । 'ब्रह्मैव सर्वैः विज्ञेयम्' इति
हि सकलशास्त्राणां सन्देशः । ‘ब्रह्म’शब्दश्रवणमात्रेण अनेकेषां मनसि परोक्षभूता दूरस्था
काचित् देवता इति कल्पना जायते । नैषा कल्पना साध्वी । ब्रह्म इति ‘आत्मसंस्थम्’ ।
आत्मनि सम्यक् स्थितम् – आत्मसंस्थम् । स्वस्मिन्नेव अवस्थितं स्वरूपभूतं ब्रह्म इत्यर्थः ॥

परमार्थतस्तु ब्रह्म न आत्मनि स्थितम् । किं तु आत्मैव ब्रह्म । ब्रह्मैव उपाधिभिः जीवात्मरूपेण
अवभासते । एतद् ब्रह्मैव साधकैः विज्ञेयम् । अनेन ज्ञानेनैव परमा शान्तिः, मुक्तिश्च लभ्यते ।
एतावति विज्ञाते इतोऽधिकं ज्ञातव्यं न किञ्चिदवशिष्यते । ज्ञातव्यं सर्वमपि एतावदेव ।
सकलशास्त्राणामपि सन्देशः अयमेव । ब्रह्मणि आत्मत्वेन ज्ञाते सति साधकः मुक्तो भवति ॥