एतत् श्रेयो येऽभिनन्दन्ति...

विकिसूक्तिः तः

एतत् श्रेयो येऽभिनन्दन्ति मूढाः जरामृत्युं ते पुनरेवापियन्ति - मुण्डकोपनिषत् १-२-७

ये मूढाः कर्मफलमेव श्रेयोमार्गं मन्यन्ते, तत्रैव सन्तुष्यन्ति च ते पुनः पुनः जन्ममरणान्येव प्राप्नुवन्ति ॥

कर्मानुष्ठानेन अस्माकम् इष्टफलप्राप्तिर्भवति, अनिष्टपरिहारश्च भवति । कर्मभिः सर्वविधानि अभ्युदयफलानि
लभ्यन्ते, अतः कर्तव्यान्येव कर्माणि; इत्येतत् सत्यमेव । न तु कर्मफलं मुक्तिर्भवति । कर्मयोगरूपेण अनुष्ठीयन्ते
चेत् तदा चित्तशुद्धिद्वारा कर्माणि आत्मज्ञानोदयाय सहायकानि भवन्ति ॥

इदं सूक्ष्मं रहस्यम् अविज्ञाय ये केवलकर्ममार्गनिरताः सन्तः कर्ममार्गमेव च श्रेयोमार्गं मन्यन्ते ते मूढा एव ननु ?
पित्तललोहमेव सुवर्णं मन्यमानाः किं न मूढाः ? भवतु, एतेषां किं वा फलं भवेत् ? जन्मजरादुःखमरणान्येव फलम् ।
कर्मफलानि अनुभवितुं जायन्ते । जाताः सन्तः पुनः कर्माणि कुर्वते, पुनः म्रियन्ते । एवम् एतेषां जन्ममरणानि
अपरिहार्याणि । आत्मज्ञानादेव मुक्तिः लभ्यते, न तु कर्मकोटिभिः ॥