एतद्ध्येवाक्षरं ब्रह्म...

विकिसूक्तिः तः

एतद्ध्येवाक्षरं ब्रह्म एतदध्येवाक्षरं परम् । - काठकोपनिषत् १-२-१६

एष ओङ्कार एव परं ब्रह्म अपरं च ब्रह्म भवति ।

उपनिषत्सु ओङ्कारस्य उपासनं ज्ञानं च तत्र तत्र उपदिश्यते । ओङ्कारः अपरब्रह्मत्वेन
उपास्यः, परब्रह्मत्वेन च ज्ञेयः इति उपदिश्यते । अकार उकार मकारात्मकम् ओङ्कारं
सृष्टिस्थितिलयकरत्वेन अपरं ब्रह्म उपासीत । नैष्ठिकब्रह्मचारिणः तुरीयाश्रमिणः
संन्यासिनश्च प्रणवोपासनतत्पराः भवेयुः । तेषां मरणानन्तरं ब्रह्मलोकप्राप्तिः फलं
भवति, तत्र आत्मज्ञानं लब्ध्वा ते मुच्यन्ते ॥

अथ उत्तमाधिकारिणः मुमुक्षवः जिज्ञासवश्चेत् ते तत्त्वविचारपराः सन्तः ओङ्कारं
परब्रह्मत्वेन जानीयुः । अकार एव जाग्रदवस्था, उकार एव स्वप्नावस्था, मकार
एव सुषुप्तावस्था च । अमात्रः अपादश्च ओङ्काराख्यः प्रणव एव परं ब्रह्म । वैश्वानर
तैजस प्राज्ञाख्यान् त्रीनप्यात्मनः अतीत्य स्थितः तुरीय आत्मैव ओङ्कारः । ओङ्कार
एव परं ब्रह्म, देशकालातीतः आत्मैव ओङ्कारः । एवंज्ञानमेव सम्यग्दर्शनम् ।
सद्गुरुप्रसादात् एवम् अमात्रं परब्रह्मस्वरूपम् ओङ्कारम् आत्मत्वेन यो वेत्ति
स मुक्तो भवति ॥