एतद्वै सत्यकाम...

विकिसूक्तिः तः

एतद्वै सत्यकाम, परं चापरं च ब्रह्म यदोङ्कारः । - प्रश्नोपनिषत् ५-२

हे शैब्य सत्यकाम, अयम् ओङ्कारः परं ब्रह्म अपरं ब्रह्म च भवति ।

उपनिषत्सु ओङ्कारस्य महिमा नानारीत्या उपदिष्टोऽस्ति । प्रकृतायाम् अस्यां प्रश्नोपनिषदि
पिप्पलादो महर्षिः ओङ्कारम् परब्रह्मत्वेन अपरब्रह्मत्वेन च उपदिशति । परं ब्रह्म नाम परिपूर्णम्
अक्षरम् । इदमेव अत्र उपनिषदि सत्यमिति पुरुष इति च उपदिश्यते । धीराः ओङ्कारं
नाशरहितम् अक्षरम् इति विज्ञाय मुच्यन्ते ॥

अनुत्तमाधिकारिणां तु इदं ज्ञातुं न शक्यम् । अतः मन्दमध्यमाधिकारिणाम् ओङ्कारः परब्रह्मणः
प्रतीकत्वेन उपदिश्यते । महाविष्णोः शालग्राम इव परस्य ब्रह्मणः ओङ्कारः प्रतीकं भवति ।
परस्य ब्रह्मणः ओङ्कार आलम्बनभूतः । बहूनाम् आलम्बनानां मध्ये ओङ्कारः ब्रह्मणः समीपतमम्
आलम्बनं भवति । परब्रह्मत्वे ज्ञेयमिति, अपरब्रह्मत्वे उपास्यमिति ओङ्कारस्वरूपं ज्ञातव्यम् ।
ओङ्कारोपासनेन ब्रह्मलोकम्, ओङ्कारज्ञानेन मोक्षं च प्राप्नुयात् साधकः ॥

"https://sa.wikiquote.org/w/index.php?title=एतद्वै_सत्यकाम...&oldid=16426" इत्यस्माद् प्रतिप्राप्तम्