एतद् वृङ्क्ते पुरुषस्य...

विकिसूक्तिः तः

एतद् वृङ्क्ते पुरुषस्य अल्पमेधसो यस्यानश्नन् वसति ब्राह्मणो गृहे । - काठकोपनिषत् १-१-८

यस्य गृहस्थस्य गृहे भोजनम् अकृत्वा अतिथिः वसति, तस्य आथितेयस्य सर्वमपि पुण्यम् एषः ब्राह्मणो
अतिथिः नाशयति ॥

अनिरीक्षितः अनाहूतः यः स्वयमेव गृहम् आगच्छति तस्य ‘अतिथिः’ इति नामधेयम् । इमम् अतिथिं
’महाविष्णु’ भावनया सत्कुर्यात् । अतिथिसेवा गृहस्थाश्रमस्य मुख्यं कर्तव्यम् । अतिथिसेवया देवताः
सन्तुष्टा भवन्ति । अयं भारतीयः सम्प्रदायः ॥

इदानींतनकाले तु अतिथीनां दर्शनेनैव कोपः सञ्जायते । अतिथयो नाम अस्माकं जुगुप्सा जायेत ।
अतिथीनां सत्कारो न क्रियते इत्येव केवलं न, किं तु तेषां तिरस्कार एव क्रियते । एतत् सर्वथा
अकार्यम्, अयं महापराधः । अतिथितिरस्कारः महापापमेव ॥

मानवेन सप्रयत्नं सम्पादितः सर्वोऽपि पुण्यराशिः अतिथितिरस्कारेणा नश्यति । पुण्यसम्पादनम्
अतीव कष्टम्, अपि तु तस्य नाशनम् अतिसुलभम् । तस्मात् अतिथिसत्कारः सदा कर्तव्यः,
अतिथितिरस्कारः न कदापि कर्तव्यः इत्यर्थः ॥