एतस्मात् जायते प्राणो...

विकिसूक्तिः तः

आत्मन एव प्राणस्य उत्पत्तिः

एतस्मात् जायते प्राणो मनः सर्वेन्द्रियाणि च । - मुण्डकोपनिषत् २-१-३

एतस्मादेव आत्मनः प्राणः मनः सर्वेन्द्रियाणि च जायन्ते ।

आत्मनः महिमानं व्यापकत्वं च उपदिशति अयं मन्त्रः । आत्मनः एव प्राणो जायते ।
अत्र प्राणो नाम आध्यात्मिकः मुख्यः प्राणः, स एव आधिदैविकः समष्टिकरणात्मा
हिरण्यगर्भः । अयमेव आधिभौतिको वायुः । आत्मनो जातं सर्वमपि कार्यं परमार्थतः
अनृतमेव भवति । कार्यं सर्वं वाचारम्भणमात्रमेव “वाचारम्भणं विकारो नामधेयम्”
इति छान्दोग्योपनिषत् धैर्येण उद्घोषयति ॥

मनश्च आत्मन एव जायते । अत्र मनः इति हिरण्यगर्भस्य समष्टिबुद्धिरुच्यते ।
सकलप्राणिनां व्यष्टिबुद्धिश्च अत्र गृह्येत । मनः, बुद्धिः, चित्तम्, अहङ्कारः इति
चतसृभिः वृत्तिभिः अवभासमानम् अन्तः करणमेव अत्र ‘मनः’ शब्देन कथ्यते ।
ईदृशं मनोऽपि आत्मन एव कार्यम् । तथा ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि च आत्मन
एव जायन्ते । आत्मा तु प्राणात्, मनसः इन्द्रियेभ्यश्चात्यन्तसूक्ष्मः ॥