एतेभ्यो भूतेभ्यः समुत्थाय...

विकिसूक्तिः तः

एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, न प्रेत्य संज्ञा अस्तीति होवाच याज्ञवल्क्यः ॥ - बृहदारण्यकोपनिषत् २-४-१२

इदं सर्वं जगत् भूतेभ्यः समुत्थितं सत् अन्ते तेष्वेव विनश्यति । मरणानन्तरं संज्ञा नास्ति इति याज्ञवल्क्यः उवाच ॥

इदं सर्वं विश्वं परमात्मन एव जनित्वा परमात्मन्येव स्थित्वा, परमात्मन्येव लीयते । स्थितिकाले ब्रह्मणः भिन्नमिव दृश्यमानत्वं तु
अविद्यया एव, न तु परमार्थतः । तरङ्गबुद्बुदफेनादयः समुद्रादेव जायन्ते, समुद्रे एव विद्यन्ते, अन्ते समुद्रे एव विलीयन्ते हि ?

नामरूपाभ्यां भिन्नभिन्नमिव दृश्यमानम् इदं विश्वं सर्वदा ब्रह्मैव सदपि अविद्यादोषेण अज्ञानिनाम् एवं बुद्धिं नारोहति । अन्ते सर्वं ब्रह्मण्येव
प्रलीयते । अविद्यानिरसनानन्तरं यथापूर्वं जीवत्वं वा नानात्वं वा नावशिष्यते । ब्रह्मविदः नानात्वज्ञानं वा नामरूपविशेषज्ञानं वा कथम्
अवशिष्येत ? नैव अवशिष्येत । अज्ञानप्रदर्शितं विशेषविज्ञानं ज्ञानोदयसमकालमेव बाधितं भवति ॥