एत बालका: दर्शयामि...

विकिसूक्तिः तः

एत बालका: दर्शयामि...


एत बालका: दर्शयामि वस्तेजो हिन्दुस्थानस्य,

तेजो भारतवर्षस्य ।
अस्य मृत्तिका शिरसा वन्द्या, भूमिरियं बलिदानस्य ।
वन्दे मातरं, वन्दे मातरम् ॥


उत्तरभागे रक्षणकर्ता नगाधिराजो विख्यात:
दक्षिणदेशे पदक्षालको महासागर: प्रख्यात: ।
पश्यत गङ्गायमुनातीरं परं पावनं भूलोके
स्थाने स्थाने यद् दिव्यत्वं नैव सुराणामपि नाके
एकमेव तत् स्थानं चैतत् देवानामवतारस्य ॥१॥


रजपूतानामेतत् स्थानं खडे येषाम् अभिमान:
धर्मरक्षणे युद्धे मरणं यैर्मन्यते सम्मान: ।
अत्रैवासीत् प्रतापवीरो विश्वेऽस्मिन् यो बहुमान्य:
शीलरक्षणे भस्मीभूता: अत्रासङ्ख्या: पद्मिन्य:
रज: सुपूतं वीरपदाब्जै: स्थानं चैतद्देशस्य ॥२॥


वङ्गोऽयं यद्धरणीहरिता मनोहारिणी सर्वत्र
निजराष्ट्रार्थं सिद्धा मरणे सन्ति बालका अप्यत्र
रामकृष्ण-गौराङ्ग-विवेकानन्द-प्रमुखा: यत्रासन् ।
अरविन्दाद्या: क्रान्तिकारका: शान्तिपूजका: यत्रासन्
जन्मभूरियं ‘नेताजे:’ प्रख्यातस्य सुभाषस्य ॥३॥


इयं दृश्यतां महाराष्ट्रभू: यत्र शिवाजी राजासीत्
यस्य भवानीकरवालेन म्लेच्छानां संहारोऽभूत्
स्थाने स्थाने पर्वतभागे सामर्थ्याग्नि: प्रकटोऽभूत्
घोषो ‘हर हर महादेव’ इति बाले बाले प्राविरभूत्
कृतं हि गौरवरक्षणकार्यं शिवेन हिन्दुस्थानस्य ॥४॥


भक्तिमानयं दक्षिणदेशो गोदाकृष्णापरिपुष्ट:
गगनस्पर्धित-शिल्पकलान्वित-गोपुरभालैर्विभूषित: ।
अत्र विद्यते सुजनस्थानं सीतापति-पदपरिपूतम् ।
अत्र शङ्कराचार्या: वन्द्या: केरलभागे सम्भूता:

विजयनगर-साम्राज्यमिहासीत् ख्यातं हिन्दूधर्मस्य ॥५॥



"https://sa.wikiquote.org/w/index.php?title=एत_बालका:_दर्शयामि...&oldid=15237" इत्यस्माद् प्रतिप्राप्तम्