एवमेवायं पुरुषः...

विकिसूक्तिः तः

उभयत्रापि आत्मा निर्भयः

एवमेवायं पुरुषः एतौ उभौ अनुसञ्चरति स्वप्नान्तं च बुद्धान्तं च । - बृहदारण्यकोपनिषत् ४-३-१८

यथा महामत्स्यः, एवमेव अयं पुरुषः स्वप्नान्तं च बुद्धान्तं च एतौ
उभौ अनुसञ्चरति ॥

यथा महामत्स्यः नद्याम् पूर्वस्मात् तटात् पश्चिमं, पश्चिमाच्च तटात्
पूर्वं तटं सहजतया निर्भयः सञ्चरति, एवमेव आत्मा अपि आयासं विना
निर्भयः सन् जागरितात् स्वप्नम्, स्वप्नाच्च जागरितं सञ्चरति ।
अवस्थासम्बन्धरहितः असङ्गः आत्मा भवति ॥

जागरितस्वप्नावस्थे परस्परविलक्षणे भवतः । जागरिते सति स्वप्नो नास्ति,
स्वप्ने सति जागरितं नास्ति । जागरितोपाधयः स्वप्ने न सन्ति, स्वप्नस्थाः
पदार्थाः अत्र जागरिते न भवन्ति । आत्मा तु निरायासः जागरितस्वप्नयोः
उभयोरपि अवस्थयोः सञ्चरति । न केनापि स्थानेन सम्बद्धः अवस्थाद्वयप्रकाशकः
स्वयमात्मा असङ्ग एव भवति । जाग्रदवस्थावतः आत्मनः स्वप्नसम्बन्धो
नास्ति, स्वप्नं पश्यतः जागरितावस्थासङ्गश्च नास्ति । आत्मा तु सदा
जागरित स्वप्नोपाधिसबन्धरहित एव असङ्गः परिशुद्ध एव अवतिष्ठते ॥

"https://sa.wikiquote.org/w/index.php?title=एवमेवायं_पुरुषः...&oldid=16473" इत्यस्माद् प्रतिप्राप्तम्