एषाऽस्य परमा गतिः...

विकिसूक्तिः तः

एषाऽस्य परमा गतिः, एषाऽस्य परमा सम्पत्, एषोऽस्य परमो लोकः,
एषोऽस्य परम आनन्दः । - बृहदारण्यकोपनिषत् ४-३-३२

एषा सुषुप्तिरेव आत्मनः परमा गतिः, एषा परमा सम्पत्, एष एव च परमो लोकः,
एष एव च अस्य परमः आनन्दः ॥

अयं मन्त्रः सुषुप्तेः महिमानं वर्णयति । सुषुप्तौ उपाधिसम्बन्धाभावात् स्वानन्दामृतसागरे
निमग्नोऽसौ आत्मा । जाग्रत् स्वप्नयोः अयमात्मा सर्वदा दुःखशोकमोहपरिपूर्ण इव दृश्यते ।
द्वैतसत्यत्वे सदा दुःखानि भवन्त्येव । एषः अनुभवः सार्वत्रिकः ॥

सुषुप्तौ तु एवं दुःखानि नैव विद्यन्ते । एषा परमा गतिः । इतरास्तु सर्वा अपि गतयः दुःखपूर्णा
एव । एषा गतिस्तु दुःखरहिता । तस्मात् इयं परमा गतिः । एषा परमा सम्पत् । सुषुप्तौ विद्यमाना
सम्पत् स्वाभाविकी हि । अयमेव परमो लोकः । सर्वे इतरे लोकाः दुःखमिश्रिता एव । अयं तु लोकः
दुःखरहितः । अयमेव परमः आनन्दः । सुषुप्तौ हि दुःखस्य गन्धोऽपि न विद्यते । इयं सार्वत्रिकी
सहजा परिपूर्णा च आनन्दस्थितिः ॥

"https://sa.wikiquote.org/w/index.php?title=एषाऽस्य_परमा_गतिः...&oldid=16450" इत्यस्माद् प्रतिप्राप्तम्